शिव के पांच आवरणों में स्थित देवताओं की स्तुति
यह शिव स्तुति समस्त संकटों का नाश करके सद्गति प्रदान करती हे।
जो मनुष्य जीवन में एक भी बार इस स्तुति को श्रद्धा भाव से पाठ कर लेट हे शिव जी की विशेष कृपा का पत्र होता हे।
सारे भौतिक सुख उसकी जोली में होते हे ।
स्तोत्रं वक्ष्यामि ते कृष्ण पंचावरणमार्गतः ।
योगेश्वरमिदं पुण्यं कर्म येन समाप्यते ।।1।।
जय जय जगदेकनाथ शम्भो, प्रकृतिमनोहर नित्यचित्स्वभाव ।
अतिगतकलुषप्रपंचवाचामपि मनसां पदवीमतीततत्त्वम् ।।2।।
स्वभावनिर्मलाभोग जय सुन्दरचेष्टित ।
स्वात्मतुल्यमहाशक्ते जय शुद्धगुणार्णव ।।3।।
अनन्तकान्तिसम्पन्न जयासदृशविग्रह ।
अतर्क्समहिमाधार जयानाकुलमंगल ।।4।।
निरंजन निराधार जय निष्कारणोदय ।
निरन्तरपरानन्द जय निर्वृत्तिकारण ।।5।।
जयतिपरमैश्वर्य जयतिकरुणास्पद ।
जय स्वतन्त्रसर्वस्व जयासदृशवैभव ।।6।।
जयावृतमहाविश्व जयानावृत केनचित् ।
जयोत्तर समस्तस्य जयात्यन्तनिरुत्तर ।।7।।
जयाद्भुत जयाक्षुद्र जयाक्षत जयाव्यय ।
जयामेय जयामाय जयाभव जयामल ।।8।।
महाभुज महासार महागुण महाकथा ।
महाबल महामाय महारस महारथ ।।9।।
नमः परमदेवाय नमः परमहेतवे ।
नमः शिवाय शान्ताय नमः शिवतराय ते ।।10।।
त्वदधीनमिदं कृत्स्नं जगद्धि ससुरासुरम् ।
अतस्त्वद्विहितामाज्ञां क्षमतं कोऽतिवर्तितुम् ।।11।।
अयं पुनर्जनो नित्य भवदेकसमाश्रयः ।
भवानतोऽनुगृह्यस्मै प्रार्थितं सम्प्रयच्छतु ।।12।।
जयाम्बिके जगन्मातर्जय सर्वजगन्मयि ।
जयानवधिकैश्वर्ये जयानुपमविग्रहे ।।13।।
जय वाङ्मनसातीते जयाचिद्ध्वान्तभाजके ।
जय जन्मजराहीने जय कालोत्तरोत्तरे ।।14।।
जयानेकविधानस्थे जय विश्वेश्वरप्रिये ।
जय विश्वसुराराध्ये जय विश्वविजृम्भिणि ।।15।।
जय मंगलदिव्यांगे जय मंगलदीपिके ।
जय मंगलचारित्रे जय मंगलदायिनि ।।16।।
नमः परमकल्याणगुणसंचयमूर्तये ।
त्वतः खलु समुत्पन्नं जगत्त्वय्येव लीयते ।।17।।
ज्वद्विनातः फलं दातुमीश्वरोऽपि न शक्नुयात् ।
जन्मप्रभृति देवेशि जनोऽयं त्वदुपाश्रितः ।।18।।
पंचवक्त्रो दशभुजः शुद्धस्फटिकसन्निभः ।
वर्णब्रह्मकलादेहो देवः सकलनिष्कलः ।।19।।
शिवमूर्तिसमारूढ़ः शान्त्यतीतः सदाशिवः ।
भक्त्या मयार्चितो मह्यं प्रार्थितं शं प्रयच्छतु ।।20।।
सदाशिवाङ्मारूढ़ा शक्तिरिच्छा शिवाह्यया ।
जननी सर्वलोकानां प्रयच्छतु मनोरथम् ।।21।।
शिवयोर्दयितौ पुत्रौ देवौ हेरम्बषण्मुखौ ।
शिवानुभावौ पुत्रौ देवौ हेरम्बषण्मुखौ ।।22।।
शिवानुभावौ सर्वग्धौ शिवाभ्यां नित्यसत्कृतौ ।
सत्कृतौ च सदा देवौ ब्रह्माद्यैस्त्रिदशैरपि ।।2311
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ।
स्वेच्छावतारं कुर्वन्तौ स्वांशभेदैरनेकशः ।।2411
ताविमौ शिवयोः पार्श्वे नित्यमित्थं मयार्चितौ ।
तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ।।25।।
शुद्धस्फटिकसंकाशमीशानाख्यां सदाशिवम् ।
मूर्द्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ।।2611
शिवार्चरतं शान्तं शान्त्यतीतं खमास्थितम् ।
पंचाक्षरान्तिमं बीजं कलाभिः पंचभिर्युतम् ।।27।।
प्रथमावरणे पूर्वं शक्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ।।28।।
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ।
पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ।।2911
शान्त्यात्मकं मरुत्संस्थं शम्भोः पादार्चने रतम् ।
प्रथमं शिवबीजेशु कलासु च चतुश्कलम् ।।30।।
पूर्वभागे मया भक्त्या शक्त्या सहसमर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ।।31।।
अंजनादिप्रतीकाशमघोरं घोरविग्रहम् ।
देवस्य दक्षिणं वक्त्रं देवदेवपदार्चकम् ।।3211
विद्यापदं समारूढं वह्निमण्डलमध्यगम् ।
द्वितीयं शिवबीजेषु कलास्वष्टकलान्वितम् ।।3311
शम्भोर्दक्षिणदिग्भागे शक्त्या सह समर्चितम् ।
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ।।34।।
कुंकुमक्षोदसंकाशं वामाख्यं वरवेशधृक् ।
वक्त्रमुत्तरमीशस्य प्रतिष्ठायां प्रतिष्ठतम् ।।3511
अति दुर्लभ शिव आवरण स्तुति
वारिमण्डलमध्यस्थं महादेवार्चने रतम् । तुरीयं शिवबीजेषु त्रयोदशकलान्वितम् ।।36।।
देवस्योत्तरदिग्भागे शक्या सह समर्चितम् । पवित्रं परमं ब्रह्म प्राथितं मे प्रयच्छतु ।।3711
अति दुर्लभ शिव आवरण स्तुति
शंखकुन्देन्दुधवलं सद्याख्यां सौम्यलक्षणम् ।
शिवस्य पश्चिमं वक्त्रं शिवपादार्चने रतम् ।। 3811
निवृत्तिपदनिष्ठं च पृथिव्यां समवस्थितम् ।
तृतीयं शिवबीजेषु कलाभिश्चाष्टभिर्युतम् ।।3911
देवस्य पश्चिमे भागे शक्त्या सह समर्चितम् । पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ।।40।।
शिवस्य तु शिवायाश्च हन्मूर्ती शिवभाविते । तयोराज्ञां पुरस्कृत्य ते मे कामं प्रयच्छताम् ।।41 ।।
शिवस्य च शिवायाश्च शिखामूर्ती शिवाश्रिते ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ।।42।।
अति दुर्लभ शिव आवरण स्तुति
शिवस्य च शिवायाश्च वर्मणा शिवभाविते । सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ।।43।।
शिवस्य च शिवायाश्च नेत्रमूर्ती शिवाश्रिते ।
सत्कृत्य शियोराज्ञां ते मे कामं प्रयच्छताम् ।।44।।
अस्त्रमूर्ती च शिवयोर्नित्यमर्चनतत्परे ।
सत्कृत्य शिवयोराज्ञां ते मे कामं प्रयच्छताम् ll45ll
वामो ज्येष्ठास्तथा रुद्रः कालो विकरणस्तथा ।
बलो विकरणश्चैव बलप्रमथनः परः ।।4611
सर्वभूतमस्य दमनस्तादृशाश्चाष्टशक्तयः । प्रार्थितं मे प्रयच्छन्तु शिवयोरेव शासनात्।।47।।
अथानन्तश्च सूक्ष्मश्च शिवाश्चेष्कनेत्रकः । एकरुद्रस्रिमूर्तिश्च श्रीकण्ठश्च शिखण्डिकः ।।48।।
तथाष्टौ शक्तयस्तेषां द्वितीयावरणेऽर्चिताः । ते मे कामं प्रयच्छन्तु शिवयोरेव शासनात्।।4911
भवाद्या मूर्तयश्चाष्टौ तासामपि च शक्तयः ।
महादेवादयश्चान्ये तथैकादशमूर्तयः ।।50।।
शक्तिभिः सहिताः सर्वे तृतीयावरणे स्थिताः ।
सत्कृत्य शिवयोराज्ञां दिशन्तु फलमीप्सितम् ।।51।।
वृषराजो महातेजो महामेघसमस्वनः । मेरुमन्दरकैलासहिमाद्रिशिखरोपमः ।।52।।
सिताभ्रशिखराकारककुदा परिशोभितः ।
महाभोगीन्द्रकल्पेन वालेन च विराजितः।।53।।
रक्तास्यशृंगाचरणो रक्तप्रायविलोचनः ।
पीवरोन्नतसर्वांगः सुचारुगमनोज्ज्वलः ।।54।।
प्रशस्तलक्षणः श्रीमान् प्रज्वलन्मणिभूषणः ।
शिवप्रियः शिवसक्तः शिवयोर्ध्वजवाहनः।155।।
तथा तच्चरणन्यासपवितापरविग्रहः ।
गोराजपुरुषः श्रीमान् श्रीमच्छूलवरायुधः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ।।5611
नन्दीश्वरो महातेजा नगेन्द्रतनयात्मजः ।
सनारायणकैर्देवैर्नित्यमभ्यर्च्य वन्दितः ।।57।।
शर्वस्यान्तपुद्वारि सार्द्ध परिजनैः स्थितः ।
सर्वेश्वरसमप्रख्यः सर्वासुरविमर्दनः ।।58।।
सर्वेशां शिवधर्माणामध्यक्षत्वेऽभिषेचितः ।
शिवप्रियः शिवसक्तः श्रीमच्छूलवरायुधः ।।5911
शिवाश्रितेषु संसक्तस्त्वनुरक्तश्च तैरपि ।
सत्कृत्य शिवयोराज्ञां स मे कामं प्रयच्छतु ।।60।।
महाकालो महाबाहुर्महादेव इवापरः ।
महादेवाश्रितानां तु नित्यमेवाभिरक्षतु ।।6111
शिवप्रियः शिवासक्तः शिवयोरर्चकः सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ।।62।।
सर्वशास्त्रार्थतत्त्वज्ञः शास्ता विष्णोः परा तनुः ।
महामोहात्मतनयो मधुमांसासर्वप्रियः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ।।63।।
ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चण्डविक्रमा ।।6411
एता वै मातरः सप्त सर्वलोकस्य मातरः ।
प्रार्थितं मे प्रयच्छन्तु परमेश्वरशासनात् ।।65।।
मत्तमातंगवदनो गंगोमाशंकरात्मजः ।
आकाशदेहो विग्बाहुः सोमसूर्याग्निलोचनः ।।66।।
ऐरावतादिभिर्दिव्यैर्दिग्गजैर्नित्यमर्चितः ।
शिवज्ञानमदोद्भिन्नस्त्रिदशानामविघ्नकृत् ।।6711
विघ्नकृच्चासुरादीनां विघ्नेशः शिवभावितः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ।।68।।
षड्मुखः शिवसम्भूतः शक्तिवज्रधरः प्रभुः ।
अग्नेश्च तनयो देवो ह्यपर्णातनयः पुनः ।।6911
गंगायाश्च गणाम्बायाः कृत्तिकानां तथैव च । विशाखेन च शाखेन नैगमेयेन चावृतः ।।70।।
इन्द्रजिच्चेन्द्रसेनानीस्तारकासुरजित्तथा
शैलानां मेरुमुख्यानां वेधकश्च स्वतेजसा ।।71।।
तप्तचामीकरप्रख्यः शतपत्रदलेक्षणः ।
कुमारः सुकुमाराणां रूपोदाहरणं महत् ।।7211
शिवप्रियः शिवासक्तः शिवपादार्चकः सदा ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ।।73।।
ज्येष्ठा वरिष्ठ वरदा शिवयोर्यजने रता ।
तयोराज्ञां पुरस्कृत्य सा मे दिशतु कांक्षितम् ।।74।।
त्रैलोक्यवन्दिता साक्षादुल्काकारा गणाम्बिकाः ।
जगत्सृष्टिविवृद्धयर्थ ब्रह्मणाभ्यार्थिता शिवात् ।।75।।
शिवायाः प्रविभक्ताया भ्रुवोरन्तरनिस्सृता ।
दाक्षायणी सती मेना तथा हैमवती ह्युमा ।।76।।
कौशिक्याश्चैव जननी भद्रकाल्यास्तथैव च ।
अपर्णायाश्च जननी पाटलायास्तथैव च ।।77।।
शिवार्चनरता नित्यं रुद्राणी रुद्रवल्लभा ।
सत्कृत्य शिवयोराज्ञां सा मे दिशतु कांक्षितम् ।।78।।
चण्डः सर्वगणेशान्तः शम्भोर्वदनसम्भवः ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु कांक्षितम् ।।79।।
पिंगलो गणपः श्रीमान् शिवासक्तः शिवप्रियः ।
आज्ञया शिवयोरेव स मे कामं प्रयच्छतु ।।80।।
भृंगीशो नाम गणपः शिवाराधनतत्परः ।
प्रयच्छतु स मे कामं पत्युराज्ञापुरस्सरम् ।।81।।
वीरभद्रो महातेजा हिमकुन्देन्दुसन्निभः ।
भक्तकालीप्रियो नित्यं मातृणां चाभिरक्षिता ।।82।।
यज्ञस्य च शिरोहर्ता दक्षस्य च दुरात्मनः ।
उपेन्द्रेन्द्रयमादीनां देवानामंगतक्षकः 118311
शिवास्यानुचरः श्रीमान् शिवशासनपालकः ।
शिवयो शासनादेव स मे दिशु कांक्षितम् ।।84।।
विष्णोर्वक्षःस्थिता लक्ष्मीः शिवयोः पूजने रता ।
शिवयोः शासनादेव सा मे दिशतु कांक्षितम् ।।85।।
महामोदी महादेव्याः पादपूजापरायणा ।
तस्या एव नियोगेन सा मे दिशतु कांक्षितम् ।।86।।
कौशिकी सिंहमारूढ़ा पार्वत्याः परमा सुता ।
विष्णोर्निद्रा महामाया महामहिषमर्दिनी ।।87।।
निशुम्भशुम्भसंहर्ती मधुमांसासवप्रिया ।
सत्कृत्य शासनं मातुः सा मे दिशतु कांक्षितम् ।।88।।
रुद्रा रुद्रसमप्रख्याः प्रमथाः प्रथितौजसः ।
भूतसख्या महावीर्या महादेवसमप्रभाः।।8911
नित्यमुक्ता निरुपमा निर्द्वन्द्वा निरुपपल्लवाः ।
सशक्तयः सानुचरा सर्वलोकनमस्कृताः।।90।।
सर्वेषामेव लोकानां सृष्टिसंहरणक्षमाः ।
परस्परानुरक्तश्च परस्परमनुव्रताः ।।91।।
परस्परमतिस्रग्धाः परस्परनमस्कृताः ।
शिवप्रियतमा नित्यं शिवलक्षणलक्षिताः ।।92।।
सौम्या घोरस्तथा मिश्राश्चान्तरालद्वयात्मिकाः ।
विरुपाश्च सुरूपाश्च नानारूपधरास्तथा ।।93।।
सत्कृत्य शिवयोराज्ञां ते मे कामं दिशन्तु वै ।
देव्याः प्रियसखीवर्गो देवीलक्षणलक्षितः ।।94।।
सहितो रुद्रकन्याभिः शक्तिभिश्चाप्यनेकशः ।
तृतीयावरणे शम्भोर्भक्त्या नित्यं समर्चितः।।95।।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ।
दिवाकरो महेशस्य मूर्तिर्दीप्तसुमण्डलः।।9611
निर्गुणो गुणसंकीर्णस्तथैव गुणकेवलः ।
अविकारात्मकश्चद्यः एकः सामान्यविक्रियः ।।97।।
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ।
एवं त्रिधा चतुर्द्धा च विभक्तः पंचधा पुन:।।9811
चतुर्थावरणे शम्भोः पूजितश्चानुगैः सह ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः ।।99।।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ।
दिवाकरषडंगानि दीप्ताद्याश्चाष्टशक्तयः।।100।।
आदित्यो भास्करो भानू रिवश्चेत्यनुपूर्वशः ।
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चादित्यमूर्तयः।।101 ।।
विस्तरा सुतरा बोधिन्याप्यायिन्यपराः पुनः ।
उषा प्रभा तथा प्राज्ञा संध्या चेत्यपि शक्तयः ।।102।।
सोमादिकेतुपर्यन्ता ग्रहाश्च शिवभाविताः ।
शिवयोराज्ञया नूना मंगलं प्रदिशन्तु मे ।।10311
अथ वा द्वादशादित्यास्तथा द्वादश शक्तयः ।
ऋषयो देवगन्धर्वाः पन्नगाप्सरसा गणाः ।।104।।
ग्रामण्यश्च तथा यक्षाः राक्षसाश्च सुरास्तथा ।
सप्त सप्तगणाश्चैते सप्तच्छन्दोमया हयाः ।।105।।
वालखिल्यादयश्चैव सर्वे शिवपदार्चकाः ।
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशन्तु मे।।106।।
ब्रह्माथ देवदेवस्य मूर्तिर्भूमण्डलाधिपः ।
चतुःषष्टिगुणैश्वर्यो बुद्धितत्त्वे प्रतिष्ठितः ।।107।।
निगुणो गुणसंकीर्णस्तथैव गुणकेवलः ।
अविकारात्मको देवस्ततः साधारणः पुरः ।।108।।
असाधारणकर्मा च सृष्टिस्थितिलयक्रमात् ।
एवं त्रिधा चतुर्द्धा च विभक्तः पंचधा पुनः ।।10911
चतुर्थावरणे शम्भोः पूजितश्च सहानुगैः ।
शिवप्रियः शिवसक्तः शिवपादार्चने रतः ।।110।।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ।
हिरण्यगर्भो लोकेशो विराटेश्वर सनातनः ।।111
सनत्कुमारः सनकः सनन्दश्च सनातनः ।
प्रजानां पतयश्चैव दक्षाद्या ब्रह्मसूनवः ।।112।।
एकादश सपत्नीका धर्मः संकल्प एव च । शिवार्चनरताश्चैते शिवभक्तिपरायणाः ।।113।।
शिवाज्ञावशगाः सर्वे दिशन्तु मम मंगलम् ।
चत्वारश्च तथा वेदाः सेतिहासपुराणकाः ।।114।।
धर्मशास्त्राणि विद्याभिर्वैदिकीभिः समन्विताः ।
परस्पराविरुद्धर्थाः शिवप्रकृतिपादकाः ।।115।।
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशन्तु मे ।
अथ रुद्रो महादेवः शम्भोर्मूर्तिगरीयसी ।।11611
वाह्नेयमण्डलाधीशः पौरुषैश्वर्यवान् प्रभुः ।
शिवाभिमानसम्पन्नो निर्गुणस्त्रिगुणात्मकः।।117।।
केवलं सात्त्विकाश्चापि राजसश्चैव तामसः ।
अविकाररतः पूर्वं ततस्तु समविक्रियः ।।118।।
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ।
ब्रह्मणोऽपि शिरश्छेत्ता जनकस्तस्य तत्सुतः।।119।।
जनकस्तनयश्चापि विष्णोरपि नियामकः ।
बोधकश्च तयोर्नित्यमनुग्रहकरः प्रभुः ।।120।।
अण्डस्यान्तर्बहिर्वर्ती रुद्रो लोकद्वयाधिपः ।
शिवप्रियः शिवासक्तः शिवपादार्चने रतः।।121 ।।
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ।
तस्य ब्रह्म षडंगानि विद्येशानां तथाष्टकम् ।।12211
चत्वारो मूर्तिभेदाश्च शिवपूर्वाः शिवार्चकाः ।
शिवो भवो हरश्चैव मृडश्चैव तथापरः । शिवस्याज्ञां पुरस्कृत्य मंगलं प्रदिशन्तु मे ।।123।।
अथ विष्णुर्महेशस्य शिवस्यैव परा तनुः ।
वारितत्त्वाधिपः साक्षादव्यक्तपदसंस्थितः ।।124।।
निर्गुणः सत्त्वबहुलस्तथैव गुणकेवलः ।
अविकाराभिमानी च त्रिसाधारणविक्रियः ।।125।।
असाधारणकर्मा च सृष्ट्यादिकरणात्पृथक् ।
दक्षिणांगभवेनापि स्पर्धमानः स्वयम्भुवा ।।12611
आद्येन ब्रह्मणा साक्षात्सृष्टः स्रष्टा च तस्य तु ।
अण्डस्यान्तर्बहिर्वती विष्णुर्लोकद्वयाधिपः ।।127।।
असुरान्तकरश्चक्री शक्रस्यापि तथानुजः ।
प्रादुर्भूश्च दशधा भृगशापच्छलादिह ।।128।।
भूभारनिग्रहार्थाय स्वेच्छयावतरत् क्षितौ । अप्रमेयबलो मायी मायया मोहयंजगत् ।।129।।
मूर्ति कृत्वा महाविष्णुं सदाविष्णुमथापि वा । वैष्णवैः पूजितो नित्यं मूर्तित्रयमयासने ।।130।1
शिवप्रियः शिवासक्तः शिवापादार्चने रतः ।
शिवस्याज्ञां पुरस्कृत्य स मे दिशतु मंगलम् ।।131।।
वासुदेवोऽनिरुद्धश्च प्रद्युम्नश्च ततः परः ।
संकर्षणः समाख्याताश्चस्त्रो मूर्तयो हरेः।13211
मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामत्रयं तथा कृष्णो विष्णुस्तुरगवक्त्रकः ।।133।।
चक्रं नारायणस्यास्त्रं पांचजन्यं च श्रांगकम् । सत्कृत्य शिवयोराज्ञां मंगलं प्रदशिन्तु मे।।134।।
प्रभा सरस्वती गौरी लक्ष्मीश्च शिवभाविता ।
शिवयोः शासनादेता मंगलं प्रदिशन्तु मे।।135।।
इन्द्रोऽग्निश्च यमश्चैव निर्ऋतिर्वरुणस्तथा ।
वायुः सोमः कुबेरश्च तथेशानस्त्रिशूलधृक्।।136।।
सर्वे शिवार्चनरताः शिवसद्भावभाविताः ।
सत्कृत्य शिवयोराज्ञां मंगलं प्रदिशन्तु मे ।।137।।
त्रिशूलमथ वज्र च तथा परशुसायकौ ।
खड्गपाशांकुशाश्चैव पिनाकश्चायुधोत्तमः ।।13811
दिव्यायुधानि देवस्य देव्याश्चैतानि नित्यशः ।
सत्कृत्य शिवयोराज्ञां रक्षां कुर्वन्तु मे सदा ।।139।।
वृषभरूपधरो देवः सौरभेयो महाबलः ।
वडवाख्यानलस्पर्धी पंचगोमातृभिर्वृतः।।14011
वाहनत्वमनुप्राप्तस्तपसा परमेशयोः ।
तयोराज्ञां पुरस्कृत्य स मे कामं प्रयच्छतु ।।141 ।।
नन्दा सुनन्दा सुरभिः सुशीला सुमनास्तथा ।
पंच गोमातरस्त्वेताः शिवलोके व्यवस्थिता।।142।।
शिवभक्तिपरा नित्यं शिवार्चनपरायणाः ।
शिवयोः शासनादेव दिशन्तु मम वांछितम् ।।143।।
क्षेत्रपालो महातेजा नीलजीमूतसन्निभः ।
दंष्ट्राकरालवदनः स्फुरद्रक्तारधोज्ज्वलः ।।144।।
रक्तोर्ध्वमूर्द्धजः श्रीमान् भुकुटीकुटिलेक्षणः ।
रक्तवृत्तत्रिनयनः शशिपन्नगभूषणः ।।145।।
नग्नस्त्रिशूलपाशासिकपालोद्यतपाणिकः ।
भैरवो भैरवैः सिद्धैर्योगिनीभिश्च संवृतः ।।14611
क्षेत्रे क्षेत्रसमासीनः स्थितो यो रक्षकः सताम् ।
शिवप्रणामपरमः शिवसद्भावभावितः ।।147।।
शिवाश्रितान् विशेषेण रक्षन् पुत्रानिवौरसान् ।
सत्कृत्य शिवयोराज्ञां स मे दिशतु मंगलम् ।। 148।।
तालजंघादयस्तस्य प्रथमावरणेऽर्चिताः ।
सत्कृत्य शिवयोराज्ञां चत्वारः समवन्तु माम् ।।149।।
भैरवाद्याश्च ये चान्ये समन्तात्तस्य वेष्टिताः ।
तेऽपि मामनुगृह्णन्तु शिवशासनगौरवात् ।।15011
नारदाद्यश्च मुनयो दिव्या देवैश्च पूजिताः ।
साध्या नागाश्च ये देवा जनलोकनिवासिनः ।।151।।
विनिर्वृत्ताधिकारश्च महर्लोकनिवासिनः ।
सप्तर्षयस्तथान्ये वै वैमानिकगणैः सह ।।152।।
सर्वे शिवार्चनरताः शिवाज्ञावशवर्तिनः ।
शिवयोराज्ञया मह्यं दिशन्तु समकांक्षितम्।।153।।
गन्धर्वाद्याः पिशाचान्ताश्चतस्त्रो देवयोनयः ।
सिद्धा विद्याधराद्याश्च येऽपि चान्ये नभश्चराः।।154।।
असुरा राक्षसाश्चैव पातालतलवासिनः ।
अनन्ताद्याश्च नागेन्द्रा वैनतेयादयो द्विजाः ।1155।।
कूष्माण्डाः प्रेतवेताला ग्रहा भूतगणाः परे ।
डाकिन्यश्चापि योगिन्यः शाकिन्यश्चापि तादृशाः ।।156।।
क्षेत्रारामगृहादीनि तीर्थान्यायतनानि च ।
द्वीपाः समुद्रा नद्यश्च नदाश्चान्ये सरांसि च ।।157।।
गिरयश्च सुमेर्वाद्याः काननानि समन्ततः ।
पशवः पक्षिणो वृक्षाः कृमिकीटादयो मृगाः ।।158।।
भुवनान्यपि सर्वाणि भुवनानामधीश्वराः ।
अण्डान्यावरणैः सार्द्ध मासाश्च दश दिग्गजाः ।।159।।
वर्णाः पदानि मन्त्राश्च तत्त्वान्यपि सहाधिपैः ।
ब्रह्माण्डधारका रुद्रारुक्ताश्चान्ये सशक्तिकाः ।।160।।
यच्च किंचिज्जगत्यस्मिन्दृष्टं चानुमितं श्रुतम् ।
सर्वे कामं प्रयच्छन्तु शिवयोरेव शासनात् ।।161।।
अथ विद्या परा शैवी पशुपाशविमोचिनी ।
पंचार्थसंहिता दिव्या पशुविद्याबहिष्कृता ।।16211
शास्त्रं च शिवधर्माख्यं धर्माख्यं च तदुत्तरम् ।
शैवाख्यं शिवधर्माख्यं पुराणं श्रुतिसम्मतम् ।।163।।
शैवागमाश्च ये चान्ये कामिकाद्याश्चतुर्विधाः ।
शिवाभ्यामविशरेषेण उत्कृत्येह समर्चिताः ।।164।।
ताभ्यामेव समाज्ञाता ममाभिप्रेतसिद्धये ।
कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ।।16511
श्वेताद्या नकुलीशान्ताः सशिष्याश्चापि देशिकाः ।
तत्संततीया गुरवो विशेषाद् गुरवो मम ।।16611
शैवा माहेश्वराश्चैव ज्ञानकर्मपरायणाः ।
कर्मेदमनुमन्यन्तां सफलं साध्वनुष्ठितम् ।।16711
लौकिका ब्राह्मणाः सर्वे क्षत्रियाश्चविशः क्रमात् ।
वेदवेदांगतत्त्वाज्ञाः सर्वशास्त्रविशारदाः ।।168।।
सांख्या वैशेषिकाश्चैव यौगा नैयायिका नराः ।
सौरा ब्राह्मास्तथा रौक्ता वैष्णवाश्चपरे नराः ।।169।।
शिष्टाः सर्वे विशिष्टाश्च शिवशासनयन्त्रिताः ।
कर्मेदमनुमन्यन्तां ममभिप्रेतसाधकम् ।।17011
शैवाः सिद्धान्तमार्गस्थाः शैवाः पशुपतास्तथा ।
शैवा महाव्रतधराः शैवाः कापालिकाः परे ।।171।।
शिवाज्ञापालकाः पूज्या ममापि शिवशासनात् ।
सर्वे मामनुगृहणन्तु शंसन्तु सफलक्रियाम् ।।172।।
दक्षिणज्ञाननिष्ठाश्च दक्षिणोत्तरमार्गगाः ।
अविरोधेन वर्तन्तां मन्त्रं श्रेयोऽर्थिनो मम ।।173।।
नास्तिकाश्च शठाश्चैव कृतघ्नाश्चैव तामसाः ।
पाषण्डाश्चातिपापाश्च वर्तन्तां दूरतो मम ।।174।।
बहुभिः किं स्तुतैरत्र येऽपि केऽपि चिदास्तिकाः ।
सर्वे मानुगृहणन्तु सन्तः शंसन्तु मंगलम् ।।175।।
नमः शिवाय साम्बाय ससुतायादिहेतवे ।
पंचावरणरूपेण प्रपंचेनावृताय ते ।।176।।
इत्युक्त्वा दण्डवद् भूमौ प्रणिपत्य शिवं शिवाम् ।
जपेत्पंचाक्षरसीं विषमष्टोत्तरशतावराम् ।।177।।
तथैव शक्तिविद्यां च जपित्वा तत्समर्पणम् ।
कृत्वा तं क्षमयित्वेशं पूजाशेषं समापयेत् ।।178।।
एतत्पुण्यतमं स्तोत्रं शिवयोर्हृदयंगमम् ।
सर्वाभीष्टप्रदं साक्षाद्भक्तिमुक्त्येकसाधनम् ।।179।।
य इदं कीर्तयेन्नित्यं शृणुयाद्वा समाहितः ।
स विधूयाशु पापानि शिवसायुज्यमाप्नुयात् ।।180।।
गोघ्नश्चैव कृतघ्नश्च वीरहा भ्रूणहापि वा ।
शरणागतघाती च मित्रविश्रम्भघातकः ।। 181।।
दुष्टपापसमाचारो मातृहा पितृहापि वा ।
स्तवेनानेन जप्तेन तत्तत्पापात् प्रमुच्यते ।।182।।
दुःस्वप्नादिमहानर्थसूचकेषु भयेषु च । यदि संकीर्तयेदेतन्न ततोऽनर्थभाग्भवेत् ।।18311
आयुरारोग्यमैश्वर्यं यच्चान्यदपि वांक्षितम् । स्तोत्रस्यास्य जपे तिष्ठंस्तत्सर्वं लभते नरः ।।184।।
असम्पूज्य शिवं स्तोत्रजपात्फलमुदाहृतम् ।
सम्पूज्य च जपे तस्य फलं वक्तुं न शक्यते ।। 185।।
आस्तामियं फलावाप्तिरस्मिन् संकीर्तिते सति ।
सार्धमम्बिकया देवः श्रुत्वैव दिवि तिष्ठति ।।186।।
तस्मान्नभसि सम्पूज्य देवदेवं सहोमया । कृतांजलिपुटस्तिष्ठन् स्तोत्रमेतदुदीरयेत् ।।187।।