नृसिंह कवच पाठ के फायदे
नृसिंह कवच का नित्य पाठ करने वाला सर्व सिद्धि प्राप्त कर सकता हे।
इस कवच को करने से भूत प्रेत बाधा नहीं लगती ।
ओर अगर किसी को कोई बाधा आ रही हो तो बाधा मिट जाती हे ।
नृसिंह कवच हर जगह आप की रक्षा करता हे ।
किसी अनुष्ठान में अगर ब्राह्मणों के ऊपर कर्म का भार आ रहा हो तो भी ये कवच पाठ कर सकते हे ।
नारद उवाच
इन्द्रादिदेव वृन्देश तातेश्वर जगत्पते । महाविष्णोर्नृसिंहस्य कवचं बुहि से प्रभो यस्य प्रपठनाद् विद्वान् त्रैलोक्यविजयी भवेत् ॥ १॥
ब्रह्मोवाच
शृणु नारदं वक्ष्यामि पुत्रश्रेष्ठ तपोधन (तपोधन) । कवचं नरसिंहस्य त्रैलोक्यविजयाभिधम् ॥ २॥
यस्य प्रपठनादु वाग्मी त्रैलोक्यविजयी भवेत् । स्त्रष्ठाऽहं जगतां वत्स पठनाद्धारणादु यतः ॥ ३॥
लक्ष्मीर्जगत्त्रयम् पाति संहर्ता च महेश्वरः पठनाद्धारणादेवा बभुवुश्च दिगीश्वराः ॥ ४॥
ब्रह्म मन्त्रमयं वक्ष्ये भूतादिविनिवारक्कम । यस्य प्रसादाद्दुर्वासास्त्रैलोक्यविजयी मुनिः । पठनाद् धारणाद् यस्य शास्ता च क्रोधभैरवः ॥ ५॥
त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः । ऋषिश्छन्दश्च गायत्री नृसिंह देवता विभुः । चतुर्वर्गे च शान्तौ च विनियोगः प्रकीर्त्तितः ॥ ६॥
क्षौं बिजं मे शिरः पातु चन्द्रवर्णो महामनुः । उग्रवीरं महाविष्णुं ज्वलन्तः सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् ॥ ७॥
द्वात्रिंशादक्षरो मन्त्रः मन्त्रराजः सुरट्रमः । कण्ठं पातु ध्रुवम् क्षौं हृद्भगवते चक्षुषी मम ॥ ८॥
नरसिंहाय च ज्वालामालिने पातु मस्तकम् । दीप्तदंष्ट्राय च तथाग्निनेत्राय च नासिकाम् ॥ ९॥
सर्वरक्षोघ्नाय देवाय सर्वभूतविनाशाय च । सर्वज्वरविनाशाय दह दह पच द्वयम् ॥ १०॥
रक्ष रक्ष सर्वमन्त्रम् स्वाहा पातु मुखं मम । तारादि रामचन्द्राय नमः पायागां मम ॥ ११॥
क्लीं पायात्पाणियुग्मंश्च तक्रम् नमः पदम् ततः । नरायणाऽप्रसवम् च आं ह्रीं कौं क्षा है फट् ॥ १२॥
षडक्षरः कटि पातु ॐ नमो भगवते पदम् । वासुदेवाय च पृष्ठं क्लीं कृष्णाय उरुद्वयम् ॥ १३॥
क्लीं कृष्णाय सदा पातु जानुनी च मनुत्तमः । क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमः पायात्पदद्वयम् ॥ १४॥
क्षौं नरसिंहाय क्षौंश्च सर्वाङ्गं मे सदाऽवतु ॥ १५॥
नृसिंह कवच पाठ क्यों करना चाहिए
इति ते कथितं वत्स सर्वमन्त्रौघ विग्रहम् । तवस्नेहान्मया ख्यातं प्रवक्तव्यं न कस्यचित् ॥ १६॥
गुरुपूजा विधायाथ गृहणीयात् कवचं नतः । सर्वपुण्ययुती भूत्वा सर्वसिद्धियुतो भवेत् ॥ १७॥
शतमष्टोत्तरं चैव पुरश्चर्याविधि स्मृतः । हवनादीन् दशांशेन कृत्वा साधकसत्तमः ॥ १८॥
ततस्तु सिद्ध कवचः पुण्यात्मा मदनीपमः । स्पर्द्धामुद्धय भवने लक्ष्मीर्वाणी वसेत् ततः ॥ १९॥
पुष्पाञ्जल्याष्टकम् दत्वामूले नैव पठेत् सकृत् । अपि वर्षसहस्राणाम् पूजायाः फलमाप्नुयात् ॥ २०॥
भूर्जे विलिख्य गुटिकाम् स्वर्णस्थाम् धारयेत् यदि । कण्ठे वा दक्षिणे बाहौ नरसिंहो भवेत् स्वयम् ॥ २१॥
योषिद्वामभुजे चैव पुरुषो दक्षिणे करें । विभृयात् कवचं पुण्यम् सर्वसिद्धियुतो भवेत् ॥ २२॥
काकबन्ध्या च या नारी मृतवत्सा च या भवेत् । जन्मबन्ध्या नष्टपुत्रा बहुपुत्रवती भवेत् ॥ २३॥
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
त्रैलोक्य क्षोभयत्येव त्रैलोक्यं विजयी भवेत् ॥ २४॥
भूतप्रेतपिशाचाश्च राक्षसा दानवश्च ये । तं दृष्ट्वा प्रपलायन्ते देशाद्देशान्तर ध्रुवम् ॥ २५॥
यस्मिन् गेहे च कवचं ग्रामे वा यदि तिष्ठति । तं देशन्तु परित्यज प्रयान्ति चाति दूरतः ॥ २६॥
॥ इतिश्रीब्रह्मसंहितायां सप्तदशाध्याये त्रैलोक्यविजयं नाम श्रीश्रीनृसिंहकवचं सम्पूर्णम् ॥